व्यासरचितम् गणेशाष्टकम् स्तोत्र

श्री वरदविनायक – महड

श्रीगणेशाय नमः ।
गणपतिपरिवारं चारूकेयूरहारं
गिरिधरवरसारं योगिनीचक्रचारम् ।
भवभयपरिहारं दुःख दारिद्रयदूरं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥१॥
अखिलमलविनाशं पाणिना हस्तपाशं
कनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।
भज भवगिरिनाशं मालतीतीरवासं
गणपतिमभिवन्दे मानसे राजहंसम् ॥२॥
विविध मणि मयूखैः शोभमानं विदूरैः
कनकरचितचित्रं कण्ठदेशेविचित्रं ।
दधति विमलहारं सर्वदा यत्नसारं
गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥३॥
दुरितगजममन्दं वारणीं चैव वेदं
विदितमखिलनादं नृत्यमानन्दकन्दम् ।
दधति शशिसुवक्त्रं चाऽङ्कुशं यो विशेषं
गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥४॥
त्रिनयनयुतभाले शोभमाने विशाले
मुकुटमणिसुढाले मौक्तिकानां च जाले ।
धवलकुसुममाले यस्य शीर्ष्णः सताले
गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥५॥
वपुषि महति रूपं पीठमादौ सुदीपं
तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् ।
गजमितदलपद्मं संस्थितं चारुछद्मं
गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥६॥
वरदविशदशस्तं दक्षिणं यस्य हस्तं
सदयमभयदं तं चिन्तये चित्तसंस्थम् ।
शबलकुटिलशुण्डं चैकतुण्डं द्वितुण्डं
गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥७॥
कल्पद्रु माधःस्थितेकामधेनुं
चिन्तामणिं दक्षिणपाणिशुण्डम् ।
बिभ्राणमत्यद्भुतचित्तरूपं यः
पूजयेत् तस्य समस्तसिद्धिः ॥८॥
व्यासाऽष्टकमिदं पुण्य गणेशस्तवनं नृणाम् ।
पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥९॥
॥ इति श्रीपद्मपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् ॥

Similar Posts

Leave a Reply

error: Content is protected !!