श्रीगणेशाय नमः ।गणपतिपरिवारं चारूकेयूरहारंगिरिधरवरसारं योगिनीचक्रचारम् ।भवभयपरिहारं दुःख दारिद्रयदूरंगणपतिमभिवन्दे वक्रतुण्डावतारम् ॥१॥अखिलमलविनाशं पाणिना हस्तपाशंकनकगिरिनिकाशं सूर्यकोटिप्रकाशम् ।भज भवगिरिनाशं मालतीतीरवासंगणपतिमभिवन्दे मानसे राजहंसम् ॥२॥विविध मणि मयूखैः शोभमानं विदूरैःकनकरचितचित्रं कण्ठदेशेविचित्रं ।दधति विमलहारं सर्वदा यत्नसारंगणपतिमभिवन्दे वक्रतुण्डावतारम् ॥३॥दुरितगजममन्दं वारणीं चैव वेदंविदितमखिलनादं नृत्यमानन्दकन्दम् ।दधति शशिसुवक्त्रं चाऽङ्कुशं यो विशेषंगणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥४॥त्रिनयनयुतभाले शोभमाने विशालेमुकुटमणिसुढाले मौक्तिकानां च जाले ।धवलकुसुममाले यस्य शीर्ष्णः सतालेगणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥५॥वपुषि महति रूपं […]
श्रीगणेशायनम: ॥मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: । भृग्वादयश्च मुनय एकदंतं समाययु: ॥ १ ॥प्रणम्य तं प्रपूज्यदौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गणेश्वरम् ॥ २ ॥देवर्षय ऊचु: ॥ सदात्मरूपं सकलादिभूतममायिनं सोहमचिंत्यबोधम् ।अनादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजाम: ॥ ३ ॥अनंतचिद्रूपमयं गणेशं ह्यभेदभेदादिविहीनमाद्यम् । ह्रदिप्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजाम: ॥ ४ ॥विश्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभांतमेकम् […]
श्रीगणेशाय नमः ॥ॐ अस्य श्रीसंकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता संकष्टहरणार्थे जपे विनियोगः ।ॐॐॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतलीलं कलयति मनसस्तेजसिन्दूरमूर्तिम् ।योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गं गंगंगंगं गणेशं गजमुखमभितो व्यापकं चिन्तयामि ॥१॥वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे व्यस्ततुण्डं क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले ।दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं-धारयन्तं धनदमतिधियं सिद्धिबुद्धिद्वितीयम् ॥२॥तुं […]
श्रीगणेशाय नम: ॥ ऐल उवाच ॥बाह्मपूजां वद विभो गृत्समदप्रकिर्तिताम् । तेन मार्गेण विघ्नेशं भजिष्यामि निरंतरम् ॥ १ ॥गार्ग्य उवाच । आदौ च मानसीं पूजां कृत्वा गत्समदो मुनि: । बाह्यां चकार विधिवत्तां श्रृणुष्व सुखप्रदाम् ॥ २ ॥ह्रदि ध्यात्वा गणेशानं परिवारादिसंयुतम् । नासिकारंध्रमार्गेण तं बाह्यांगं चकार ह ॥ ३ ॥आदौ वैदिकमंत्रं स गणानांत्वेति संपठन् । पश्चाच्छलोकं समुच्चार्य […]
श्रीगणेशाय नम: ॥ श्रीसर्वप्रदाय नम: ॥ गृत्समद उवाच ॥विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकै: स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ १ ॥एवं मया प्रार्थितविघ्नराजश्चित्तेन चोत्थाय बहिर्गणेश: । तं निर्गतं वीक्ष्य नमंति देवा: शंभ्वादयो योगिमुखास्तथाऽहम् ॥ २ ॥शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोक्ष्य मुखारविंदं देवं सभायां विनिवेशयामि ॥ ३ ॥द्विजादि सवैरभिवंदितं च […]